१२६ उपाङ्गविधानम्‌ ८. १५६-१६६ एवं नामेतिका्यं च कोपद्राक्ये विचक्षणैः । समं साचीकृताययुक्ता यच्च टृष्टिविकलिपतम्‌ ।।१५६॥ तज्जञेस्तेनानुसारेण कायं तदनुगं मुखम्‌ । अथातो सुखरागश्च चतुर्धा परिकी तितः ॥१५७॥ स्वाभाविकः प्रसन्नश्च रक्तः रयामोऽथेसंश्रयः | स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः ॥१५८॥ मध्यस्थादिषु भावेषु मुखरागः प्रयोकत्रभिः । प्रसन्नस्त्वदूभुते कार्यां हास्यश्ङ्गारयोस्तथा ॥१५६॥ वीररोद्रमदादेषु रक्तः स्यान करणे तथा । भयानके सवीमत्से शयामं संजायते मुखम्‌ ॥१६०॥ एवं भावरसा्ेषु मुखरागं प्रयोजयेत्‌ । शाखाङ्ोपाङ्गसंयुक्तः कृतोऽ-यमिनयः शुभः ॥१६१॥ मुखरागविहीनस्तु नेव शोभान्वितो भवेत्‌ । दारीराभिनयोऽल्पोऽपि मुखरागसमन्वितः ।१६२॥ द्विगुणां छभते शोभां रात्राविव निश्चाकरः । नयनाभिनयोऽपि स्यान्नानाभावरसान्वितः ॥१६३॥ मुखरागान्वितो यस्मान्नास्यमच्र प्रतिष्ठितम्‌ । यथा नेत्र प्रसपेत मुखभरृ्टिसंयुतम्‌ ॥१६४॥ तथा भाव्ररसोपेतं मुखरागं प्रयोजयेत्‌ । 1 इत्येषः मुखरागस्तु प्रोक्तो भावर साश्रयः ।॥१६५॥ अतः परं प्रवक्ष्यामि प्रीवाकर्माणि वें द्विजाः । समा नतोन्नता च्यस्रा रेचित्ता कुञ्विताच्चिता ॥१६६॥ 156-157 (8.1600-1619 ; 09.158). 157-158 8.1618-1628 ; ©.159 . 158-160 (8.162.164 ; 0.160-1628). 161-162 (8.165-1663 ; 0.1628-163). 162-163 (8.166.678 ; &.164). = 163.164 (8.1678-1682 ; 0.165). 164-165 (8.168-169 ; = 0.166-1672). > ©, इ, 166- (8.170 ; 6.1670-1688). १७