सप्तमोऽध्यायः भावानिदानी वक्ष्यामः । अत्राह--भावा इति कस्मात्‌, कि भावयन्तीत भावा" १ उच्यते-वागङ्खसनवोपेतान्‌ काञ्यार्थान्‌ भावयन्तीति भावाः । °माव इति करणसाधनं-- यथा भावितः वासितः कृत इत्यनर्थान्तरम्‌ । छोकेऽपि सिद्धम्‌ अहो हन्योन्यगन्धेन रसेन वा सवमेव भावितम्‌। अपि च व्याप्त्य्थ, शटोकाश्चात्र भवन्ति- विभावेराहतो योऽ्थस्त्वनुभावेन गम्यते । वागङ्खसच्वाभिनयेः स भाव इति संज्ञितः | १॥ वागङ्धमुखरागेश्च सत्तेनाभिनयेन च । कवेरन्तर्गतं भावं भावयन्‌ भाव उच्यते ।२॥ नानाभिनयसम्बन्धान्‌ भावयन्ति रसानिमान्‌ । यस्मात्तस्मादमी भावा विज्ञेया नाख्ययोक्तृभिः ॥३॥ अथ विभाव इति कस्मादुच्यते । विभावो ` विज्ञानार्थः । विभावः कारणं निमित्तं दैतुरिति पर्यायाः । विभाव्यन्तेऽनेन वागङ्खसच्वाभिनया इति विभावः । यथा विभावितं °विज्ञातमित्यनर्थान्तरम्‌। अत्र श्ोकः-- बहवोऽर्था विभाव्यःते बागङ्खाभिनयाभिताः । अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥४।॥ अथानुभाव इति कस्माद्‌ उच्यते । अनुभाव्यतेऽनेन वागङ्खसच्वैः $ृतोऽभिनय इति । भत्र इछोकः-- वागङ्खाभिनयेनेह्‌ यतस्त्वर्थोऽनुभाग्यते । ' वागङ्खोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः ।।५॥ 1 8. 1-2 ; 0. 542). † 8.0. किं भवन्तैति भावा किंवा भावयन्तीति भावाः. ४ 8.9. भू चति करणे धातु्या ष॒ भाञिति' वासितः कतभिव्र्थान्तरम्‌, ए भाव इति व्या्तमर्थन्तरम्‌,. 2 (8,3.; 0.2). . 3 (8.4-5 ; 6.3). ' 8.06. 24 नाम तल 015, > ^मिदयर्थान्तरम्‌ , 4 (8.6 ; 6.4), 5 (.7-8 210 705९}, 1 ए. शा वाङ्गोप' ङ्‌,