३३ ताण्डवलक्षणम्‌ ४. १,-२३ अहो नास्यमिदं सम्यक्‌ त्वया सष्टं महामते । यरास्यं च शुभार्थं च पुण्यं बुद्धिविवर्धनम्‌ ॥१२॥ मयापीदं स्मृतं चत्तं सन्ध्याकलेषु नृत्यता । नानाकरणसंयुक्तेरडहारेर्विभूषितम्‌ ॥१२॥ पवरङ्विधावस्मिन्‌ त्वया सम्यक्‌ प्रयुज्यताप्‌ । #वधमानकयोगेन गीतेष्वासारितेषु च ॥१४॥ महागीतेषु चेवार्थान्‌ सम्यगेवाभिनेष्यसि । यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः ।१५॥ एभिर्विमिभितश्चायं चित्रो नाम भविष्यति । श्रुत्वा महेश्वरवचः प्रत्युक्तं च स्वयंभुवा ॥१६॥ प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम । ततस्तण्डुं समाहूय प्रोक्तवान्‌ सुरसत्तमः ॥१५।॥ प्रयोगमङ्गहाराणामाचक् भरताय वे । ततो वे तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना ॥१८॥ नानाकरणसंयुक्तान्‌ व्याख्यास्यामि सरेचकान्‌ । स्थिरहस्तोऽङ्गहारस्तु तथा पय॑स्तकः स्मृतः ॥१६॥ सूचीविद्धस्तथा च स्यात्‌ ह्यपवि द्वस्तथेव च । आक्षिप्रकोऽथ विज्ञेयस्तथा चोद्घट्टितः स्मरतः ॥२०॥ विष्कम्भश्चैव संपोक्तस्तथा चेवापराजितः। विष्कम्भापस्तश्चेव मत्ताक्रीडस्तथेव च ।२१॥ स्वस्तिको रेचितश्चैव पादर्वस्वस्तिक एव च । बृश्चिकश्चैव संप्रोक्तो भ्रमरश्च तथापरः ॥२२॥ मत्तस्खलितकश्चेव मद्‌द्िसितस्तथा । गतिमण्डङोऽथ विज्ञेयः परिच्छिन्नस्तथैव च ॥२३॥ 12 (8.0. 50771९).13-14 (2. 5५7८ ; 6.13-148). 14-15 (@. 5५0८ ; 06.148). 15-16 (8. 5411९ ; 0.15). 15-17 (®, 5५70८ ; 6.16). 17-18 (®. 502 ; ©. 17). 18.19 (@. 5५11८ ; 0, 18). ५